Category: Gayatri

Vividha Gayatri Mantrani – विविध गायत्री मन्त्र

तत्पुरुषाय विद्महे महादेवाय धीमहि । तन्नो रुद्रः प्रचोदयात् ॥ १ तत्पुरुषाय विद्महे वक्रतुण्डाय धीमहि । तन्नो दन्तिः प्रचोदयात् ॥ २ तत्पुरुषाय विद्महे चक्रतुण्डाय धीमहि । तन्नो नन्दिः प्रचोदयात् ॥ ३ तत्पुरुषाय विद्महे महासेनाय धीमहि...

Gayatri mantra in Hindi

ओं भूर्भुव॑स्सुव॑ः । तत्स॑वितु॒र्वरे”ण्य॒म् । भ॒र्गो॑ दे॒वस्य॑ धी॒महि । धियो॒ योन॑ः प्रचो॒दया”त् ॥

Sri Gayathri Ashtottara sata nama stotram – श्री गायत्री अष्टोत्तर शतनाम स्तोत्रम्

तरुणादित्यसङ्काशा सहस्रनयनोज्ज्वला । विचित्रमाल्याभरणा तुहिनाचलवासिनी ॥ १ ॥ वरदाभयहस्ताब्जा रेवातीरनिवासिनी । प्रणित्यय विशेषज्ञा यन्त्राकृतविराजिता ॥ २ ॥ भद्रपादप्रिया चैव गोविन्दपदगामिनी । देवर्षिगणसन्तुष्टा वनमालाविभूषिता ॥ ३ ॥ स्यन्दनोत्तमसंस्था च धीरजीमूतनिस्वना । मत्तमातङ्गगमना हिरण्यकमलासना ॥ ४...

Sri Gayathri Ashtottara Satanamavali – श्री गायत्री अष्टोत्तर शतनामावलिः

ओं तरुणादित्यसङ्काशायै नमः ओं सहस्रनयनोज्ज्वलायै नमः ओं विचित्रमाल्याभरणायै नमः ओं तुहिनाचलवासिन्यै नमः ओं वरदाभयहस्ताब्जायै नमः ओं रेवातीरनिवासिन्यै नमः ओं प्रणित्यय विशेषज्ञायै नमः ओं यन्त्राकृतविराजितायै नमः ओं भद्रपादप्रियायै नमः ओं गोविन्दपदगामिन्यै नमः ॥ १० ॥...

Sri Gayatri Bhujanga Stotram – श्री गायत्री भुजङ्ग स्तोत्रम्

उषःकालगम्यामुदात्त स्वरूपां अकारप्रविष्टामुदाराङ्गभूषाम् । अजेशादि वन्द्यामजार्चाङ्गभाजां अनौपम्यरूपां भजाम्यादि सन्ध्याम् ॥ १ ॥ सदा हंसयानां स्फुरद्रत्नवस्त्रां वराभीति हस्तां खगाम्नायरूपाम् । स्फुरत्स्वाधिकामक्षमालां च कुम्भं दधनामहं भावये पूर्वसन्ध्याम् ॥ २ ॥ प्रवाल प्रकृष्टाङ्ग भूषोज्ज्वलन्तीं किरीटोल्लसद्रत्नराजप्रभाताम् । विशालोरु...

Sri Gayatri Stuti – श्री गायत्री स्तुति

नारद उवाच । भक्तानुकम्पिन् सर्वज्ञ हृदयं पापनाशनम् । गायत्र्याः कथितं तस्माद् गायत्र्याः स्तोत्रमीरथ ॥ १ ॥ श्री नारायण उवाच । आदिशक्ते जगन्मातर्भक्तानुग्रहकारिणी । सर्वत्र व्यापिकेऽनन्ते श्री सन्ध्ये ते नामोऽस्तुते ॥ २ ॥ त्वमेव सन्ध्या...

Gayatri stotram – श्री गायत्री स्तोत्रम्

श्री गायत्री स्तोत्र नमस्ते देवि गायत्री सावित्री त्रिपदेऽक्षरी । अजरेऽमरे माता त्राहि मां भवसागरात् ॥ १ ॥ नमस्ते सूर्यसङ्काशे सूर्यसावित्रिकेऽमले । ब्रह्मविद्ये महाविद्ये वेदमातर्नमोऽस्तु ते ॥ २ ॥ अनन्तकोटिब्रह्माण्डव्यापिनी ब्रह्मचारिणी । नित्यानन्दे महामाये परेशानी...

Gayatri ashtakam – श्री गायत्र्यष्टकम्

विश्वामित्रतपःफलां प्रियतरां विप्रालिसंसेवितां नित्यानित्यविवेकदां स्मितमुखीं खण्डेन्दुभूषोज्ज्वलाम् । ताम्बूलारुणभासमानवदनां मार्ताण्डमध्यस्थितां गायत्रीं हरिवल्लभां त्रिणयनां ध्यायामि पञ्चाननाम् ॥ १ ॥ जातीपङ्कजकेतकीकुवलयैः सम्पूजिताङ्घ्रिद्वयां तत्त्वार्थात्मिकवर्णपङ्क्तिसहितां तत्त्वार्थबुद्धिप्रदाम् । प्राणायामपरायणैर्बुधजनैः संसेव्यमानां शिवां गायत्रीं हरिवल्लभां त्रिणयनां ध्यायामि पञ्चाननाम् ॥ २ ॥ मञ्जीरध्वनिभिः...

error: Stotra Nidhi mobile app also has this content.