Category: Lakshmi

Sri Saubhagya Lakshmi Ashtottara satanamavali – श्री सौभाग्यलक्ष्मी अष्टोत्तरशतनामावलिः

ओं शुद्ध लक्ष्मै नमः । ओं बुद्धि लक्ष्मै नमः । ओं वर लक्ष्मै नमः । ओं सौभाग्य लक्ष्मै नमः । ओं वशो लक्ष्मै नमः । ओं काव्य लक्ष्मै नमः । ओं गान लक्ष्मै नमः...

Sri Sowbhagya Lakshmi Sthuthi – श्री सौभाग्यलक्ष्मी स्तुति

ओं शुद्धलक्ष्म्यै बुद्धिलक्ष्मै वरलक्ष्मै नमो नमः । नमस्ते सौभाग्यलक्ष्यै महालक्ष्म्यै नमो नमः ॥ १ वशोलक्ष्मै काव्यलक्ष्मै गानलक्ष्म्यै नमो नमः । नमस्ते शृङ्गारलक्ष्म्यै महालक्ष्म्यै नमो नमः ॥ २ ॥ धनलक्ष्म्यै धान्यलक्ष्म्यै धरालक्ष्म्यै नमो नमः ।...

Sri Lakshmi Gadyam – श्री लक्ष्मीगद्यं

श्रीवेङ्कटेशमहिषी श्रितकल्पवल्ली पद्मावती विजयतामिह पद्महस्ता । श्रीवेङ्कटाख्य धरणीभृदुपत्यकायां या श्रीशुकस्य नगरे कमलाकरेभूत् ॥ १ भगवति जय जय पद्मावति हे, भागवत निकर बहुतर भयकर बहुलोद्यमयम सद्मायति हे, भविजन भयनाशि भाग्यपयोराशि वेलातिग लोल विपुलतरोल्लोल वीचि लीलावहे,...

Sri Bhadra Lakshmi Stotram – श्री भद्रलक्ष्मी स्तोत्रम्

श्रीदेवी प्रथमं नाम द्वितीयममृतोद्भवा । तृतीयं कमला प्रोक्ता चतुर्थं लोकसुन्दरी ॥ १ ॥ पञ्चमं विष्णुपत्नीति षष्ठं श्रीवैष्णवीति च । सप्तमं तु वरारोहा अष्टमं हरिवल्लभा ॥ २ ॥ नवमं शार्‍ङ्गिणी प्रोक्ता दशमं देवदेविका । एकादशं...

Sri Lakshmi Hrudaya Stotram – श्री लक्ष्मी हृदय स्तोत्रम्

अस्य श्री महालक्ष्मी-हृदय-स्तोत्र-महामन्त्रस्य भार्गव ऋषिः, अनुष्टुपादि नानाछन्दांसि, आद्यादि श्रीमहालक्ष्मी देवता, श्रीं बीजं, ह्रीं शक्तिः, ऐं कीलकम् । श्रीमहालक्ष्मी-प्रसादसिद्ध्यर्थे जपे विनियोगः ॥ करन्यासः । ओं ऐं श्रीं अङ्गुष्टाभ्यां नमः । ओं ऐं ह्रीं तर्जनीभ्यां नमः...

Sri Lakshmi Ashtottara Shatanamavali – श्री लक्ष्मी अष्टोत्तरशतनामावलिः

ओं प्रकृत्यै नमः । ओं विकृत्यै नमः । ओं विद्यायै नमः । ओं सर्वभूतहितप्रदायै नमः । ओं श्रद्धायै नमः । ओं विभूत्यै नमः । ओं सुरभ्यै नमः । ओं परमात्मिकायै नमः । ओं वाचे...

Sri Lakshmi Stotram (Indra rachitam) – श्री लक्ष्मी स्तोत्रम् (इन्द्ररचितं)

नमः कमलवासिन्यै नारायण्यै नमो नमः । कृष्णप्रियायै सततं महालक्ष्मै नमो नमः ॥ १ ॥ पद्मपत्रेक्षणायै च पद्मास्यायै नमो नमः । पद्मासनायै पद्मिन्यै वैष्णव्यै च नमो नमः ॥ २ ॥ सर्वसम्पत्स्वरूपिण्यै सर्वराध्यै नमो नमः ।...

Sri Lakshmi Sahasranama stotram – श्री लक्ष्मी सहस्रनाम स्तोत्रम्

नाम्नां साष्ट सहस्रं च ब्रूहि गार्य महामते । महालक्ष्म्य़ा महादेव्या भुक्तिमुक्त्यर्थसिद्धये ॥ १ ॥ श्री गार्ग्य उवाच- सनत्कुमारमासीनं द्वादशादित्यसन्निभं । अपृच्छन्योगिनो भक्त्या योगिनामर्थसिद्धये ॥ २ ॥ सर्व लौकिक कर्मभ्यो विमुक्तानां हिताय वै । भुक्तिमुक्तिप्रदं...

Sri Lakshmi Ashtaka Stotram – श्री लक्ष्म्यष्टक स्तोत्रम्

महालक्ष्मि भद्रे परव्योमवासिन्यनन्ते सुषुम्नाह्वये सूरिजुष्टे । जये सूरितुष्टे शरण्ये सुकीर्ते प्रसादं प्रपन्ने मयि त्वं कुरुष्व ॥ १ ॥ सति स्वस्ति ते गौरि गायत्रि गौरि ध्रुवे कामधेनो सुराधीश वन्द्ये । सुनीते सुपूर्णेन्दुशीते कुमारि प्रसादं प्रपन्ने...

Sri Stuti – श्रीस्तुतिः

श्रीमान्वेङ्कटनाथार्यः कवितार्किककेसरी । वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ॥ ईशानां जगतोऽस्य वेङ्कटपतेर्विष्णोः परां प्रेयसीं तद्वक्षःस्थलनित्यवासरसिकां तत्क्षान्तिसंवर्धिनीं । पद्मालङ्कृत पाणिपल्लवयुगां पद्मासनस्थां श्रियं वात्सल्यादि गुणोज्ज्वलां भगवतीं वन्दे जगन्मातरम् ॥ मानातीतप्रथितविभवां मङ्गलं मङ्गलानां वक्षःपीठीं मधुविजयिनो भूषयन्तीं स्वकान्त्या...

Sri Lakshmi Gayatri Mantra Stuti – श्री लक्ष्मी गायत्री मन्त्रस्तुतिः

श्रीर्लक्ष्मी कल्याणी कमला कमलालया पद्मा । मामकचेतस्सद्मनि हृत्पद्मे वसतु विष्णुना साकम् ॥ १ ॥ तत्सदों श्रीमितिपदैः चतुर्भिश्चतुरागमैः । चतुर्मुखस्तुता मह्यमिन्दिरेष्टं प्रयच्छतु ॥ २ ॥ सच्चित्सुखत्रयीमूर्ति सर्वपुण्यफलात्मिका । सर्वेशमहिषी मह्यमिन्दिरेष्टं प्रयच्छतु ॥ ३ ॥ विद्या...

Sri Lakshmi Stotram (Agastya rachitam) – श्री लक्ष्मी स्तोत्रम् (अगस्त्य रचितं)

जय पद्मविशालाक्षि जय त्वं श्रीपतिप्रिये । जय मातर्महालक्ष्मि संसारार्णवतारिणि ॥ महालक्ष्मि नमस्तुभ्यं नमस्तुभ्यं सुरेश्वरि । हरिप्रिये नमस्तुभ्यं नमस्तुभ्यं दयानिधे ॥ पद्मालये नमस्तुभ्यं नमस्तुभ्यं च सर्वदे । सर्वभूतहितार्थाय वसुवृष्टिं सदा कुरु ॥ जगन्मातर्नमस्तुभ्यं नमस्तुभ्यं दयानिधे...

Sri Lakshmi Stotram (Sarva deva kritam) – श्री लक्ष्मी स्तोत्रम् (सर्वदेवकृतं)

देवा ऊचुः- क्षमस्व भगवत्यम्ब क्षमाशीले परात्परे । शुद्धसत्त्वस्वरूपे च कोपादिपरिवर्जिते ॥ १ ॥ उपमे सर्वसाध्वीनां देवीनां देवपूजिते । त्वया विना जगत्सर्वं मृततुल्यं च निष्फलम् ॥ २ ॥ सर्वसम्पत्स्वरूपा त्वं सर्वेषां सर्वरूपिणी । रासेश्वर्यधिदेवी त्वं...

Sri Stotram (Agni Purana) – श्री स्तोत्रम् (अग्निपुराणे)

पुष्कर उवाच – राजलक्ष्मीस्थिरत्वाय यथेन्द्रेण पुरा श्रियः । स्तुतिः कृता तथा राजन् जयार्थं स्तुतिमादरेत् ॥ १ ॥ इन्द्र उवाच- नमस्ते सर्वलोकानां जननीमब्धिसम्भवां । श्रियमुन्निद्रपद्माक्षीं विष्णुवक्षस्स्थलस्थिताम् ॥ २ ॥ त्वं सिद्धिस्त्वं स्वधा स्वाहा सुधा त्वं...

Mahalakshmi ashtakam – श्री महालक्ष्म्यष्टकम्

इन्द्र उवाच – नमस्तेऽस्तु महामाये श्रीपीठे सुरपूजिते । शङ्खचक्रगदाहस्ते महालक्ष्मी नमोऽस्तुते ॥ १ ॥ नमस्ते गरुडारूढे डोलासुरभयङ्करि । सर्वपापहरे देवि महालक्ष्मी नमोऽस्तुते ॥ २ ॥ सर्वज्ञे सर्ववरदे सर्वदुष्टभयङ्करि । सर्वदुःखहरे देवि महालक्ष्मी नमोऽस्तुते ॥...

Ashtalakshmi stotram – श्री अष्टलक्ष्मी स्तोत्रम्

॥ आदिलक्ष्मी ॥ सुमनसवन्दित सुन्दरि माधवि चन्द्रसहोदरि हेममये । मुनिगणमण्डित मोक्षप्रदायिनि मञ्जुलभाषिणि वेदनुते ॥ पङ्कजवासिनि देवसुपूजित सद्गुणवर्षिणि शान्तियुते । जयजय हे मधुसूदनकामिनि आदिलक्ष्मी सदा पालय माम् ॥ १ ॥ ॥ धान्यलक्ष्मी ॥ अहिकलिकल्मषनाशिनि कामिनि...

Sri Lakshmi ashtottara satanama stotram – श्री लक्ष्मी अष्टोत्तरशतनाम स्तोत्रम्

श्री लक्ष्मी अष्टोत्तरशतनाम स्तोत्र देव्युवाच- देवदेव महादेव त्रिकालज्ञ महेश्वर । करुणाकर देवेश भक्तानुग्रहकारक ॥ १ ॥ अष्टोत्तरशतं लक्ष्म्याः श्रोतुमिच्छामि तत्त्वतः । ईश्वर उवाच- देवि साधु महाभागे महाभाग्यप्रदायकम् । सर्वैश्वर्यकरं पुण्यं सर्वपापप्रणाशनम् ॥ २ ॥...

Kanakadhara stotram – कनकधारा स्तोत्रम्

कनकधारास्तोत्रम् वन्दे वन्दारु मन्दारं इन्दिरानन्द कन्दलम् । अमन्दानन्दसन्दोहं बन्धुरं सिन्धुराननम् ॥ अङ्गं हरेः पुलकभूषणमाश्रयन्ती भृङ्गाङ्गनेव मुकुलाभरणं तमालम् । अङ्गीकृताखिलविभूतिरपाङ्गलीला माङ्गल्यदास्तु मम मङ्गलदेवतायाः ॥ १ ॥ मुग्धा मुहुर्विदधती वदने मुरारेः प्रेमत्रपाप्रणिहितानि गतागतानि । माला दृशोर्मधुकरीव...

error: Stotra Nidhi mobile app also has this content.